class 10 ncert sanskrit chapter 1 शुचिपर्यावरणम् solution

शुचिपर्यावरणम्
Shemushi Chapter 1 — शुचिपर्यावरणम्

प्रश्न 1.

एकपदेन उत्तरं लिखत–

(क) अत्र जीवितं कीदृशं जातम्?
उत्तरम्: दुर्वहमत्र

(ख) अनिशं महानगरमध्ये किं प्रचलति?
उत्तरम्: कालायासचक्रम्

(ग) कुत्सितवस्तुमिश्रितं किमस्ति?
उत्तरम्: भक्ष्यम्

(घ) अहं कस्मै जीवनं कामये?
उत्तरम्: मानवाय

(ङ) केषां माला रमणीया?
उत्तरम्: ललितलतानां

प्रश्न 2.

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत–

(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?
उत्तरम्: कविः सुजीवनार्थं प्रकृतेः शरणम् इच्छति।

(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
उत्तरम्: यानानां हि अनन्ताः पङ्कतयः महानगरेषु सन्ति अतः तत्र संसरणं कठिनं वर्तते।

(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
उत्तरम्: अस्माकं पर्यावरणे वायुमण्डलं, जलम्, भक्ष्यम्, धरातलं च सर्वं दूषितम् अस्ति।

(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
उत्तरम्: कविः एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति।

(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
उत्तरम्: स्वस्थजीवनाय खगकुलकलरवगुञ्जिते कुसुमावलिसमीरचालिते वातावरणे भ्रमणीयम्।

(च) अन्तिमे पद्यांशे कवेः का कामना अस्ति?
उत्तरम्: अन्तिमे पद्यांशे कवेः मानवेभ्यः शान्तिप्रियजीवनस्य कामना अस्ति।

प्रश्न 3.

सन्धिं / सन्धिविच्छेदं कुरुत–

(क) प्रकृतिः + _________ = प्रकृतिरेव
उत्तरम्: एव

(ख) स्यात् + _________ + _________ = स्यान्नैव
उत्तरम्: न, एव

(ग) _________ + अनन्ता = ह्यनन्ताः
उत्तरम्: हि

(घ) बहिः + अन्तः + जगति = _________
उत्तरम्: बहिरन्तर्जगति

(ङ) _________ + नगरात् = अस्मान्नगरात्
उत्तरम्: अस्मात्

(च) सम् + चरणम् = _________
उत्तरम्: पञ्चरणम्

(छ) धूमम् + मुञ्चति = _________
उत्तरम्: धूमंमुञ्चति

प्रश्न 4.

अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत–
(भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः)

(क) इदानीं वायुमण्डलं ___________ प्रदूषितमस्ति।
उत्तरम्: भृशम्

(ख) ___________ जीवनं दुर्वहम् अस्ति।
उत्तरम्: अत्र

(ग) प्राकृतिक वातावरणे क्षणं सञ्चरणम् ___________ लाभदायकं भवति।
उत्तरम्: अपि

(घ) पर्यावरणस्य संरक्षणम् ___________ प्रकृतेः आराधना।
उत्तरम्: एव

(ङ) ___________ समयस्य सदुपयोगः करणीयः।
उत्तरम्: सदा

(च) भूकम्पितसमये ___________ गमनमेव उचितं भवति।
उत्तरम्: बहिः

(छ) ___________ हरीतिमा ___________ शुचि पर्यावरणम्।
उत्तरम्: यत्र, तत्र

प्रश्न 5(अ).

अधोलिखितानां पदानां पर्यायपदं लिखत–

(क) सलिलम् – जलम्
(ख) आम्रम् – रसालम्
(ग) वनम् – कान्तारम्
(घ) शरीरम् – तनुः
(ङ) कुटिलम् – वक्रम्
(च) पाषाणः – प्रस्तरः

प्रश्न 5(आ).

अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत–

(क) सुकरम् – दुष्करम्
(ख) दूषितम् – निर्मलम्
(ग) गृह्णन्ती – मुञ्चति
(घ) निर्मलम् – दुषितम्
(ङ) दानवाय – मानवाय
(च) सान्ताः – ध्वानम्

प्रश्न 6.

उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समासनाम च लिखत–

(ख) हरिततरूणाम् – कर्मधारय समास
(ग) ललितलतानाम् – कर्मधारय समास
(घ) नवमालिका – कर्मधारय समास
(ङ) धृतसुखसन्देशम् – बहुब्रीहि समास
(च) कज्जलमलिनम् – कर्मधारय समास
(छ) दुर्दान्तैर्दशनैः – कर्मधारय समास

प्रश्न 7.

रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

(क) शकटीयानम् कज्जलमलिनं धूम मुञ्चति।
उत्तरम्: कीदृशम्

(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
उत्तरम्: केषाम्

(ग) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
उत्तरम्: के

(घ) महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।
उत्तरम्: केषु कुत्र

(ङ) प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।
उत्तरम्: कस्याः

Leave a Comment

Your email address will not be published. Required fields are marked *