class 10 ncert sanskrit chapter 2 solution बुद्धिर्बलवती सदा

बुद्धिमती
Shemushi Chapter 2 — बुद्धिमती

प्रश्न 1.

एकपदेन उत्तरं लिखत

() बुद्धिमती कुत्र व्याघ्रं ददर्श?
उत्तरम्: गहनकानने

() भामिनी कया विमुक्ता?
उत्तरम्: निजबुद्ध्या

() सर्वदा सर्वकार्येषु का बलवती?
उत्तरम्: बुद्धिः

() व्याघ्रः कस्मात् बिभेति?
उत्तरम्: मानुषात्

() प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?
उत्तरम्: शृगालम्

प्रश्न 2.

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत

() बुद्धिमती केन उपेता पितुर्गृहं प्रति चलिता?
उत्तरम्: बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।

() व्याघ्रः किं विचार्य पलायितः?
उत्तरम्: काचिदियं व्याघ्रमारी इति मत्वा पलायितः।

() लोके महतो भयात् कः मुच्यते?
उत्तरम्: लोके महतो भयात् बुद्धिमान् मुच्यते।

() जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?
उत्तरम्: यत् मानुषादपि बिभेषि इति वदन् जम्बुकः व्याघ्रस्य उपहासं करोति।

() बुद्धिमती शृगालं किम् उक्तवती?
उत्तरम्: बुद्धिमती शृगालं उक्तवती — “रे रे धूर्त! त्वया मह्यं पुरा व्याघ्रत्रयं दत्तम्। विश्वास्य अपि अद्य एकम् आनीय कथं यासि इति अधुना वद।”

प्रश्न 3.

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत

() तत्र राजसिंहो नाम राजपुत्रः वसति स्म।
उत्तरम्: तत्र किम् नाम राजपुत्रः वसति स्म?

() बुद्धिमती चपेटया पुत्रौ प्रहृतवती।
उत्तरम्: बुद्धिमती कया पुत्रौ प्रहृतवती?

() व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
उत्तरम्: कम् दृष्ट्वा धूर्तः शृगालः अवदत्?

() त्वं मानुषात् बिभेषि।
उत्तरम्: त्वं कस्मात् बिभेषि?

() पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्।
उत्तरम्: पुरा त्वया कस्मै व्याघ्रत्रयं दत्तम्?

प्रश्न 4.

अधोलिखितानि वाक्यानि घटनाक्रमानुसारं योजयत

() व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।
उत्तरम्: बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता।

() प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच।
उत्तरम्: मोर्गे सा एकं व्याघ्रम् अपश्यत्।

() जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
उत्तरम्: व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच — “अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्।”

() मोर्गे सा एकं व्याघ्रम् अपश्यत्।
उत्तरम्: व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।

() व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच — “अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्।”
उत्तरम्: जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।

() बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता।
उत्तरम्: प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच।

() ‘त्वं व्याघ्रत्रयम् आनेतुं’ प्रतिज्ञाय एकमेव आनीतवान्।
उत्तरम्: ‘त्वं व्याघ्रत्रयम् आनेतुं’ प्रतिज्ञाय एकमेव आनीतवान्।

() गलबद्धशृगालकः व्याघ्रः पुनः पलायितः।
उत्तरम्: गलबद्धशृगालकः व्याघ्रः पुनः पलायितः।

प्रश्न 5.

सन्धिं / सन्धिविच्छेदं कुरुत

() पितुर्गृहम् – पितुः + गृहम्
() एकैकः – एक + एकः
() अन्योऽपि – अन्यः + अपि
() इत्युक्त्वा – इति + उक्त्वा
() यत्रास्ते – यत्र + आस्ते

प्रश्न 6.

अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत
(दर्शितवान्, दृष्टवान्, अकथयत्, अगच्छत्, याचितवान्, गतवान्, खादितुम्, आविष्कर्तुम्, मुक्तो भवति, मग्नो भवति, पश्यति, इच्छति)

() ददर्श – दृष्टवान्
() जगाद – अकथयत्
() ययौ – गतवान्
() अत्तुम् – खादितुम्
() मुच्यते – मुक्तो भवति
() ईक्षते – पश्यति

प्रश्न 7().

पाठात् चित्वा पर्यायपदं लिखत

() वनम् – काननम्
() शृगालः – जम्बुकः
() शीघ्रम् – सत्वरम्
() पत्नी – भार्या
() गच्छसि – यासि

प्रश्न 7().

पाठात् चित्वा विपरीतार्थकं पदं लिखत

() प्रथमः – द्वितीयः
() उक्त्वा – श्रुत्वा
() अधुना – तदा
() अवेला – वेला
() बुद्धिहीना – बुद्धिमती

chapter-2-बुद्धिमती.docx

Leave a Comment

Your email address will not be published. Required fields are marked *