प्रश्न 1. एकपदेन उत्तरं लिखत–
(क) वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?
उत्तरम्: कृषकः
(ख) वृषभः कुत्र पपात?
उत्तरम्: क्षेत्रे(ग) दुर्बले सुते कस्याः अधिका कृपा भवति?
उत्तरम्: मातुः
(घ) कयोः एकः शरीरेण दुर्बलः आसीत्?
उत्तरम्: बलीवर्दयोः
(ङ) चण्डवातेन मेघरवैश्च सह कः समजायत?
उत्तरम्: प्रवर्षः
प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत–
(क) कृषकः किं करोति स्म?
उत्तरम्: कृषकः क्षेत्रकर्षणं करोति स्म।
(ख) माता सुरभिः किमर्थम् अश्रूणि मुञ्चति स्म?
उत्तरम्: भूमौ पतितं स्वपुत्रं दृष्ट्वा माता सुरभिः अश्रूणि मुञ्चति स्म।
(ग) सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तरं ददाति?
उत्तरम्: सुरभिः इन्द्रस्य इदमुत्तरं ददाति—”भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।”
(घ) मातुः अधिका कृपा कस्मिन् भवति?
उत्तरम्: मातुः अधिका कृपा दीने पुत्रे भवति।
(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
उत्तरम्: इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं प्रवर्षं कृतवान्।
(च) जननी कीदृशी भवति?
उत्तरम्: जननी सर्वेषु अपत्येषु तुल्यवत्सला, परं दीने पुत्रे कृपाघनहृदया भवति।
(छ) पाठेऽस्मिन् कयोः संवादः विद्यते?
उत्तरम्: अस्मिन् पाठे सुरभेः च सुराधिपस्य च (इन्द्रस्य) संवादः विद्यते।
प्रश्न 3. ‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदैः कुरुत–
| क स्तम्भ | ख स्तम्भ |
| (क) कृच्छ्रेण | (vi) काठिन्येन |
| (ख) चक्षुभ्याम् | (iii) नेत्राभ्याम् |
| (ग) जवने | (v) द्रुतगत्या |
| (घ) इन्द्रः | (ii) वासवः |
| (ङ) पुत्राः | (vii) सुताः |
| (च) शीघ्रम् | (iv) अचिरम् |
| (छ) बलीवर्दः | (i) वृषभः |
प्रश्न 4. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत–
(क) सः कृच्छ्रेण भारम् उद्वहति।
उत्तरम्: सः केन भारम् उद्वहति? / सः कथं भारम् उद्वहति?
(ख) सुराधिपः ताम् अपृच्छत्।
उत्तरम्: कः ताम् अपृच्छत्?
(ग) अयम् अन्येभ्यः दुर्बलः।
उत्तरम्: अयम् केभ्यः दुर्बलः?
(घ) धेनूनाम् माता सुरभिः आसीत्।
उत्तरम्: कासाम् माता सुरभिः आसीत्?
(ङ) सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दु:खी आसीत्।
उत्तरम्: कति पुत्रेषु सत्स्वपि सा दु:खी आसीत्?
प्रश्न 5. रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत–
| पद | सन्धि / विच्छेद |
| (क) कुर्वन्नासीत् | कुर्वन् + आसीत् |
| (ख) तयोरेकः | तयोः + एकः |
| (ग) नोत्थितः | न + उत्थितः |
| (घ) सत्स्वपि | सत्सु + अपि |
| (ङ) तथाप्यहमेतस्मिन् | तथा + अपि + अहम् + एतस्मिन् |
| (च) बहून्यपत्यानि | बहूनि + अपत्यानि |
| (छ) जलोपप्लवः | जल + उपप्लवः |
प्रश्न 6. अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्–
| वाक्य | सर्वनामपदं प्रयुक्तम् |
| (क) सा च अवदत् भो वासव! भृशं दु:खिता अस्मि। | सुरभ्यै |
| (ख) पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। | सुरभ्यै |
| (ग) सः दीनः इति जानन् अपि कृषकः तं पीडयति। | दुर्बल बलीवर्दम् |
| (घ) मे बहून्यपत्यानि सन्ति। | सुरभ्यै |
| (ङ) सः च ताम् एवम् असान्त्वयत्। | इन्द्राय |
| (च) सहस्रेषु पुत्रेषु सत्स्वपि तव अस्मिन् प्रीतिः अस्ति। | सुरभ्यै |
प्रश्न 7. ‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत–
| क स्तम्भ | ख स्तम्भ |
| (क) कश्चित् | कृषकः |
| (ख) दुर्बलम् | वृषभम् |
| (ग) क्रुद्धः | कृषीवलः |
| (घ) सहस्राधिकेषु | पुत्रेषु |
| (ङ) अभ्यधिका | कृपा |
| (च) विस्मितः | आखण्डलः |
| (छ) तुल्यवत्सला | जननी |