class 10 ncert sanskrit chapter 5 solution सुभाषितानि

सुभाषितानि 

प्रश्न 1. एकपदेन उत्तरं लिखत

(क) मनुष्याणां महान् रिपुः कः?
उत्तरम्: आलस्यं

(ख) गुणी किं वेत्ति?
उत्तरम्: गुणं

(ग) केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?
उत्तरम्: महताम्

(घ) पशुना अपि कीदृशः गृह्यते?
उत्तरम्: उदीरितोऽर्थः

(ङ) उदयसमये अस्तसमये च कः रक्तः भवति?
उत्तरम्: सविता

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत

(क) केन समः बन्धुः नास्ति?
उत्तरम्: उद्यमेन समः बन्धुः नास्ति।

(ख) वसन्तस्य गुणं कः जानाति?
उत्तरम्: पिकः वसन्तस्य गुणं जानाति।

(ग) बुद्धयः कीदृश्यः भवन्ति?
उत्तरम्: परेङ्गितज्ञानफलाः बुद्धयः भवन्ति।

(घ) नराणां प्रथमः शत्रुः कः?
उत्तरम्: नराणां प्रथमः शत्रुः क्रोधः।

(ङ) सुधियः सख्यं केन सह भवति?
उत्तरम्: सुधियः सख्यं सुधीभिः सह भवति।

(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः?
उत्तरम्: अस्माभिः फलच्छायासमन्वितः वृक्षः सेवितव्यः।

प्रश्न 3. अन्वयद्वये रिक्तस्थानपूर्ति कुरुत

(क) यः ___________ उद्दिश्य प्रकुप्यति तस्य ___________ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ___________ तं कथं परितोषयिष्यति?
उत्तरम्:
यः निमित्तम् उद्दिश्य प्रकुप्यति तस्य अपगमे स ध्रुवं प्रसीदति।
यस्य मनः अकारणद्वेषि अस्ति, जनः तं कथं परितोषयिष्यति?

(ख) ___________ संसारे खल ___________ निरर्थकम् नास्ति। अश्वः चेत् ___________ वीरः खरः ___________ वहने (वीरः) भवति।
उत्तरम्:
विचित्रे संसारे खलु किञ्चित् निरर्थकम् नास्ति।
अश्वः चेत् धावने वीरः खरः भारस्य वहने वीरः भवति।

प्रश्न 4. समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत

(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
उत्तरम्: अनुक्तमप्यूहति पण्डितो जनः।

(ख) मनुष्यः समस्वभावैः जनैः सह मित्रता करोति।
उत्तरम्: समानशीलव्यसनेषु सख्यम्।

(ग) परिश्रमं कुर्वाणः नरः कदापि दुःखं न प्राप्नोति।
उत्तरम्: नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।

(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
उत्तरम्: सम्पत्तौ च विपत्तौ च महतामेकरूपता।

प्रश्न 5. यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत

(क) गुणी गुणं जानाति। (बहुवचने)
उत्तरम्: गुणिनः गुणान् जानन्ति।

(ख) पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
उत्तरम्: पशुना उदीरितः अर्थः गृह्यते।

(ग) मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)
उत्तरम्: मृगः मृगेण सह अनुव्रजति।

(घ) कः छायां निवारयति। (कर्मवाच्ये)
उत्तरम्: केन छाया निवार्यते।

(ङ) तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)
उत्तरम्: एषः एव अग्निः शरीरं दहति।

प्रश्न 6 (). सन्धि / सन्धिविच्छेदं कुरुत

(क) न + अस्ति + उद्यमसमः → नास्त्युद्यमसमः
(ख) तस्य + अपगमे → तस्यापगमे
(ग) अनुक्तम् + अपि + ऊहति → अनुक्तमप्यूहति
(घ) गावः + च → गावश्च
(ङ) न + अस्ति → नास्ति
(च) रक्तः + च + अस्तमये → रक्तश्चास्तमये
(छ) योजकः + तत्र → योजकस्तत्र

प्रश्न 6 (). समस्तपदं / विग्रहं लिखत

(क) उद्यमसमः – उद्यमेन समः
(ख) शरीरे स्थितः – शरीरस्थितः
(ग) निर्बलः – निर्गतम् बलं यस्मात् सः
(घ) देहस्य विनाशाय – देहविनाशाय
(ङ) महावृक्षः – महान् वृक्षः
(च) समानं शीले व्यसनेषु – समानशीलव्यसनेषु
(छ) अयोग्यः – योग्यः

प्रश्न 7 (). विलोमपदानि पाठात् चित्वा लिखत

(क) प्रसीदति – अवसीदति
(ख) मूर्खः – पण्डितः
(ग) बली – निर्बलः
(घ) सुलभः – दुर्लभः
(ङ) सम्पत्ती – विपत्ती
(च) अस्तमये – उदयसमये
(छ) सार्थकम् – निरर्थकम्

प्रश्न 7 (). संस्कृतेन वाक्यप्रयोगं कुरुत

(क) कौआ – वायसः कृष्णवर्णः भवति।
(ख) कारण – त्वं किं निमित्तं दृष्ट्वा अत्र तिष्ठसि?
(ग) सूर्य – सूर्यः पूर्वदिशायाम् उदयति।
(घ) कोयल – पिकः मधुरं कूजति।
(ङ) आग – तत्र सुदीप्तः वह्निः प्रज्वलति।

Leave a Comment

Your email address will not be published. Required fields are marked *