विचित्रः साक्षी
अभ्यासः
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –
(क) निर्धनः जनः कथं वित्तम् उपार्जितवान्?
उत्तर: निर्धनः जनः अत्यधिकं परिश्रम्य वित्तम् उपार्जितवान्।
(ख) जनः किमर्थं पदातिः गच्छति?
उत्तर: जनः अर्थपिडितः सन् पदातिः गच्छति।
(ग) प्रसृते निशान्धकारे सः किम् अचिन्तयत्?
उत्तर: प्रसृते निशान्धकारे सः अचिन्तयत् यत् – “विजने प्रदेशे पदयात्रा न शुभावहा।”
(घ) वस्तुतः चौरः कः आसीत्?
उत्तर: वस्तुतः चौरः आरक्षी एव आसीत्।
(ङ) जनस्य क्रन्दनं निशम्य आरक्षी किम् उक्तवान्?
उत्तर: जनस्य क्रन्दनं निशम्य आरक्षी उक्तवान् –
“रे दुष्ट! तस्मिन् दिने त्वया अहं चोरितायाः मञ्जूषायाः वारितः।
इदानीं निजकृत्यस्य फलं भुङ्क्ष्व!
अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे।”
(च) मतिवैभवशालिनः दुष्कराणि कार्याणि कथं साधयन्ति?
उत्तर: मतिवैभवशालिनः दुष्कराणि कार्याणि नीतियुक्तं समालम्ब्य लीलयैव साधयन्ति।
प्रश्न 2.
रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत –
(क) पुत्रं द्रष्टुं सः प्रस्थितः।
कं द्रष्टुं सः प्रस्थितः?
(ख) करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
करुणापरो गृही कस्मै आश्रयं प्रायच्छत्?
(ग) चौरस्य पादध्वनिना अतिथि: प्रबुद्धः।
कस्य पादध्वनिना अतिथिः प्रबुद्धः?
(घ) न्यायाधीशः बंकिमचन्द्रः आसीत्।
न्यायाधीशः कः आसीत्?
(ङ) सः भारवेदनया क्रन्दति स्म।
सः कथं क्रन्दति स्म?
(च) उभौ शवं चत्वरे स्थापितवन्तौ।
उभौ शवं कुत्र स्थापितवन्तौ?
प्रश्न 3.
यथानिर्देशम् उत्तरत –
(क) ‘आदेशं प्राप्य उभौ अचलताम्’ – अत्र कर्तृपदं किम्?
उत्तर: आरक्षी चौर्ययौ च
(ख) ‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’ – अत्र ‘मार्गे’ इत्यर्थे किं पदं प्रयुक्तम्?
उत्तर: अध्वनि
(ग) ‘करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’ – अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तर: निर्धनजनाय
(घ) ‘ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्’ – अत्र क्रियापदं किम्?
उत्तर: आदिष्टवान्
(ङ) ‘दुष्कराण्यपि कर्माणि मतिवैभवशालिनः’ – अत्र विशेष्यपदं किम्?
उत्तर: मति
प्रश्न 4.
सन्धि / सन्धिविच्छेदं कुरुत –
| क्रम | संयुक्त शब्द | विच्छेद |
| (क) | पदातिरेव | पदातिः + एव |
| (ख) | निशान्धकारे | निशा + अन्धकारे |
| (ग) | अभ्यागतम् | अभि + आगतम् |
| (घ) | भोजनान्ते | भोजन + अन्ते |
| (ङ) | चौरोऽयम् | चौरः + अयम् |
| (च) | गृहाभ्यन्तरे | गृह + अभ्यन्तरे |
| (छ) | लीलयैव | लीलया + एव |
| (ज) | यदुक्तम् | यत् + उक्तम् |
| (झ) | प्रबुद्धोऽतिथि: | प्रबुद्धः + अतिथिः |
प्रश्न 5.
अधोलिखितानि पदानि पृथक् कृत्वा निर्दिष्टप्रत्ययानुसार लिखत –
| प्रत्यय | उदाहरण |
| ल्यप् | परिश्रम्य, विहाय, आदाय, समागत्य |
| क्त | प्रस्थितः, प्रविष्टः, नियुक्तः, मुर्दितः |
| क्तवतु | उपार्जितवान्, पृष्टवान्, नीतवान्, आदिष्टवान् |
| तुमुन् | दापयितुम्, द्रष्टुम्, क्रोशितुम्, निर्णेतुम् |
प्रश्न 6.
(अ) वाक्यानि बहुवचने परिवर्तयत –
(क) स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।
➡ ते बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवन्तः।
(ख) चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।
➡ चौराः ग्रामे नियुक्ताः राजपुरुषाः आसन्।
(ग) कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।
➡ केचन चौराः गृहाभ्यन्तरं प्रविष्टाः।
(घ) अन्येद्युः तौ न्यायालये स्वस्वपक्षं स्थापितवन्तौ।
➡ अन्येषुः ते न्यायालये स्वस्वपक्षं स्थापितवन्तः।
(आ) यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
| वाक्य | उत्तर |
| (क) सः ______ निष्क्रम्य बहिरगच्छत्। (गृहशब्दे पंचमी) | गृहात् |
| (ख) गृहस्थः ______ आश्रयं प्रायच्छत्। (अतिथिशब्दे चतुर्थी) | अतिथये |
| (ग) तौ ______ प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया) | न्यायाधीशं |
| (घ) ______ चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्ड लप्स्यसे। (इदम् शब्द सप्तमी) | अस्मिन् |
| (ङ) चौरस्य ______ प्रबुद्धः अतिथि:। (पादध्वनिशब्दे तृतीया) | पादध्वनिना |
प्रश्न 7.
भिन्नप्रकृतिकं पदं चिनुत –
| क्रम | पदसमूह | भिन्नपद |
| (क) | विचित्रा, शुभावहा, शङ्कया, मञ्जूषा | शङ्कया |
| (ख) | कश्चन, किञ्चित्, त्वरितं, यदुक्तम् | कश्चन |
| (ग) | पुत्रः, तनयः, व्याकुलः, तनूजः | व्याकुलः |
| (घ) | करुणापरः, अतिथिपरायणः, प्रबुद्धः, जनः | प्रबुद्धः |